हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Devi Bhagavatam Skanda 12 Chapter 9 – श्रीमद्देवीभागवते द्वादशस्कन्धे नवमोऽध्यायः


(ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम्)

व्यास उवाच ।
कदाचिदथ काले तु दशपञ्च समा विभो ।
प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥ १ ॥

अनावृष्ट्याऽतिदुर्भिक्षमभवत् क्षयकारकम् ।
गृहे गृहे शवानां तु सङ्ख्या कर्तुं न शक्यते ॥ २ ॥

केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः ।
शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः ॥ ३ ॥

बालकं बालजननी स्त्रियं पुरुष एव च ।
भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः ॥ ४ ॥

ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् ।
तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति ॥ ५ ॥

सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना ।
गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना ॥ ६ ॥

सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः ।
एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः ॥ ७ ॥

सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः ।
पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः ॥ ८ ॥

पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः ।
दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः ॥ ९ ॥

आसनाद्युपचारैश्च पूजयामास वाडवान् ।
चकार कुशलप्रश्नं ततश्चागमकारणम् ॥ १० ॥

ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः ।
दृष्ट्वा तान् दुःखितान् विप्रानभयं दत्तवान् मुनिः ॥ ११ ॥

युष्माकमेतत् सदनं भवद्दासोऽस्मि सर्वथा ।
का चिन्ता भवतां विप्रा मयि दासे विराजति ॥ १२ ॥

धन्योऽहमस्मिन् समये यूयं सर्वे तपोधनाः ।
येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥ १३ ॥

ते सर्वे पादरजसा पावयन्ति गृहं मम ।
को मदन्यो भवेद्धन्यो भवतां समनुग्रहात् ॥ १४ ॥

स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः ।
व्यास उवाच ।
इति सर्वान् समाश्वास्य गौतमो मुनिराट् ततः ॥ १५ ॥

गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः ।
नमो देवि महाविद्ये वेदमातः परात्परे ॥ १६ ॥

व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि ।
साम्यावस्थात्मिके मातर्नमो ह्रीङ्काररूपिणि ॥ १७ ॥

स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् ।
भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम् ॥ १८ ॥

तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् ।
सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम् ॥ १९ ॥

प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् ।
सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम् ॥ २० ॥

सर्वभूतारणे देवि क्षमस्व परमेश्वरि ।
इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥ २१ ॥

पूर्णपात्रं ददौ तस्मै येन स्यात् सर्वपोषणम् ।
उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि ॥ २२ ॥

तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति ।
इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला ॥ २३ ॥

अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः ।
षड्रसा विविधा राजंस्तृणानि विविधानि च ॥ २४ ॥

भूषणानि च दिव्यानि क्षौमाणि वसनानि च ।
यज्ञानां च समारम्भाः पात्राणि विविधानि च ॥ २५ ॥

यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः ।
तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः ॥ २६ ॥

अथाहूय मुनीन् सर्वान्मुनिराड्गौतमस्तदा ।
धनं धान्यं भूषणानि वसनानि ददौ मुदा ॥ २७ ॥

गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः ।
निर्गतान् यज्ञसम्भारान् स्रुक् स्रुवप्रभृतीन् ददौ ॥ २८ ॥

ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः ।
स्थानं तदेव भूयिष्ठमभवत् स्वर्गसन्निभम् ॥ २९ ॥

यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते ।
तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥ ३० ॥

देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः ।
मुनयो देवसदृशा वस्त्रचन्दनभूषणैः ॥ ३१ ॥

नित्योत्सवः प्रववृते मुनेराश्रममण्डले ।
न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित् ॥ ३२ ॥

स मुनेराश्रमो जातः समन्ताच्छतयोजनः ।
अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः ॥ ३३ ॥

तांश्च सर्वान् पुपोषायं दत्त्वाऽभयमथात्मवान् ।
नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः ॥ ३४ ॥

सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः ।
सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः ॥ ३५ ॥

अहो अयं नः किल कल्पपादपो
मनोरथान् पूरयति प्रतिष्ठितः ।
नोचेदकाण्डे क्व हविर्वपा वा
सुदुर्लभा यत्र तु जीवनाशा ॥ ३६ ॥

इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् ।
पुत्रवन्मुनिराड्गर्वगन्धेन परिवर्जितः ॥ ३७ ॥

गायत्र्याः परमं स्थानं चकार मुनिसत्तमः ।
यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका ॥ ३८ ॥

त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः ।
अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते ॥ ३९ ॥

मध्याह्ने युवती वृद्धा सायङ्काले तु दृश्यते ।
तत्रैकदा समायातो नारदो मुनिसत्तमः ॥ ४० ॥

रणयन्महतीं गायन् गायत्र्याः परमान् गुणान् ।
निषसाद सभामध्ये मुनीनां भावितात्मनाम् ॥ ४१ ॥

गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः ।
कथाश्चकार विविधा यशसो गौतमस्य च ॥ ४२ ॥

ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः ।
जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥ ४३ ॥

श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः ।
धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥ ४४ ॥

इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ ।
ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः ॥ ४५ ॥

तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः ।
अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः ॥ ४६ ॥

उत्कर्षं तु मुनेः श्रुत्वाऽसूयया खेदमागताः ।
यथाऽस्य न यशो भूयात् कर्तव्यं सर्वथैव हि ॥ ४७ ॥

काले समागते पश्चादिति सर्वैस्तु निश्चितम् ।
ततः कालेन कियताऽप्यभूद्वृष्टिर्धरातले ॥ ४८ ॥

सुभिक्षमभवत् सर्वदेशेषु नृपसत्तम ।
श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः ॥ ४९ ॥

गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे ।
धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी ॥ ५० ॥

कालस्य महिमा राजन् वक्तुं केन हि शक्यते ।
गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप ॥ ५१ ॥

जगाम सा च शालायां होमकाले मुनेस्तदा ।
हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत् क्षणे ॥ ५२ ॥

गौर्हताऽनेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः ।
होमं समाप्य मुनिराड्विस्मयं परमं गतः ॥ ५३ ॥

समाधिमीलिताक्षः संश्चिन्तयामास कारणम् ।
कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥ ५४ ॥

दधार कोपं परमं प्रलये रुद्रकोपवत् ।
शशाप च ऋषीन् सर्वान् कोपसंरक्तलोचनः ॥ ५५ ॥

वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे ।
भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः ॥ ५६ ॥

वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५७ ॥

शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५८ ॥

मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ५९ ॥

देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६० ॥

देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६१ ॥

देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६२ ॥

शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६३ ॥

रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६४ ॥

श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६५ ॥

अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६६ ॥

नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६७ ॥

स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६८ ॥

गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ६९ ॥

कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च ।
भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥ ७० ॥

श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः ।
शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः ॥ ७१ ॥

कापालिकमतासक्ता बौद्धशास्त्ररताः सदा ।
पाखण्डाचारनिरता भवत ब्राह्मणाधमाः ॥ ७२ ॥

पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा ।
भार्याविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७३ ॥

वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा ।
धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः ॥ ७४ ॥

पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते ।
बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥ ७५ ॥

मातृकन्यागामिनश्च भगिनीगामिनस्तथा ।
परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः ॥ ७६ ॥

युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा ।
मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः ॥ ७७ ॥

किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी ।
गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥ ७८ ॥

अन्धकूपादिकुण्डेषु युष्माकं स्यात् सदा स्थितिः ।
व्यास उवाच ।
वाग्दण्डमीदृशं कृत्वाऽप्युपस्पृश्य जलं ततः ॥ ७९ ॥

जगाम दर्शनार्थं च गायत्र्याः परमोत्सुकः ।
प्रणनाम महादेवीं साऽपि देवी परात्परा ॥ ८० ॥

ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह ।
अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥ ८१ ॥

उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा ।
भुजङ्गायार्पितं दुग्धं विषायैवोपजायते ॥ ८२ ॥

शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी ।
इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ॥ ८३ ॥

ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः ।
गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत् ॥ ८४ ॥

ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा ।
प्रणेमुर्मुनिवर्यं तं दण्डवत् पतिता भुवि ॥ ८५ ॥

नोचुः किञ्चन वाक्यं तु लज्जयाऽधोमुखाः स्थिताः ।
प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥ ८६ ॥

प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् ।
करुणापूर्णहृदयो मुनिस्तान् समुवाच ह ॥ ८७ ॥

कृष्णावतारपर्यन्तं कुम्भीपाके भवेत् स्थितिः ।
न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा ॥ ८८ ॥

ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् ।
मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा ॥ ८९ ॥

मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा ।
तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम् ॥ ९० ॥

व्यास उवाच ।
इति सर्वान् विसृज्याथ गौतमो मुनिसत्तमः ।
प्रारब्धमिति मत्वा तु चित्ते शान्तिं जगाम ह ॥ ९१ ॥

एतस्मात् कारणाद्राजन् गते कृष्णे तु धीमति ।
कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः ॥ ९२ ॥

भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये ।
सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः ॥ ९३ ॥

वेदभक्तिविहीनाश्च पाखण्डमतगामिनः ।
अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥ ९४ ॥

मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् ।
तप्तमुद्राङ्किताः केचित्कामाचाररताः परे ॥ ९५ ॥

कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे ।
पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः ॥ ९६ ॥

लम्पटाः परदारेषु दुराचारपरायणाः ।
कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः ॥ ९७ ॥

तस्मात् सर्वात्मना राजन् संसेव्या परमेश्वरी ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ ९८ ॥

नित्या चोपासना शक्तेर्यां विना तु पतत्यधः ।
सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयाऽनघ ॥ ९९ ॥

अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् ।
यत्परं स्थानमाद्याया भुवनेश्या भवारणेः ॥ १०० ॥

इति श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् नाम नवमोऽध्यायः ॥


Sri Lalitha Stotras – श्री ललिता स्तोत्राणि

 Lalitha Stotras – श्री ललिता स्तोत्राणि

 

 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.